Mantra Pushpam

यो॑‌உपां पुष्पं॒ वेद॑ पुष्प॑वान् प्र॒जावा॓न् पशु॒मान् भ॑वति । च॒ंद्रमा॒ वा अ॒पां पुष्पम्॓ । पुष्प॑वान् प्र॒जावा॓न् पशु॒मान् भ॑वति । य ए॒वं वेद॑ । यो‌உपामा॒यत॑नं॒ वेद॑ । आ॒यतन॑वान् भवति ।

अ॒ग्निर्वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति । यो॓ग्नेरा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । आपो॒वा अ॒ग्नेरा॒यत॑नम् । आ॒यत॑नवान् भवति । य ए॒वं वेद॑ । यो॑‌உपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।

वा॒युर्वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति । यो वा॒योरा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । आपो॒ वै वा॒योरा॒यत॑नम् । आ॒यत॑नवान् भवति । य ए॒वं वेद॑ । यो॑‌உपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।

अ॒सौ वै तप॑न्नपा॒मायत॑नम् आ॒यत॑नवान् भवति । यो॑‌உमुष्य॒तप॑त आ॒यत॑नं वेद॑ । आ॒यत॑नवान् भवति । आपो॑ वा अ॒मुष्य॒तप॑त आ॒यत॑नम् ।आ॒यत॑नवान् भवति । य एवं वेद॑ । यो॑‌உपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।

च॒ंद्रमा॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति । यः च॒ंद्रम॑स आ॒यत॑नं वेद॑ । आ॒यत॑नवान् भवति । आपो॒ वै च॒ंद्रम॑स आ॒यत॑न॒म् । आ॒यत॑नवान् भवति । य एवं वेद॑ । यो॑‌உपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।

नक्ष्त्र॑त्राणि॒ वा अ॒पामा॒यत॑न॒म् । आ॒यत॑नवान् भवति । यो नक्ष्त्र॑त्राणामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । आपो॒ वै नक्ष॑त्राणामा॒यत॑न॒म् । आ॒यत॑नवान् भवति । य ए॒वं वेद॑ । यो॑‌உपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।

प॒र्जन्यो॒ वा अ॒पामा॒यत॑नम् । आ॒यत॑नवान् भवति । यः प॒र्जन्य॑स्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । आपो॒ वै पर्जन्यस्या॒यत॑न॒म् । आ॒यत॑नवान् भवति । य ए॒वं वेद॑ । यो॑‌உपामा॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति ।

स॒ंव॒त्स॒रो वा अ॒पामा॒यत॑न॒म् । आ॒यत॑नवान् भवति । यः सं॑वत्स॒रस्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । आपो॒ वै सं॑वत्स॒रस्या॒यत॑नं॒ वेद॑ । आ॒यत॑नवान् भवति । य एवं वेद॑ । यो॓‌உप्सु नावं॒ प्रति॑ष्ठितां॒ वेद॑ । प्रत्ये॒व ति॑ष्ठति ।

ॐ रा॒जा॒धि॒रा॒जाय॑ प्रस॒ह्य साहिने॓ । नमो॑ व॒यं वै॓श्रव॒णाय॑ कुर्महे । स मे॒ कामा॒न् काम॒ कामा॑य॒ मह्यम्॓ । का॒मे॒श्व॒रो वै॓श्रव॒णो द॑दातु । कु॒बे॒राय॑ वैश्रव॒णाय॑ । म॒हा॒राजाय॒ नमः॑ ।

ओं॓ तद्ब्रह्म । ओं॓ तद्वायुः । ओं॓ तदात्मा ।
ओं॓ तद्सत्यम् । ओं॓ तत्सर्वम्॓ । ओं॓ तत्-पुरोर्नमः ॥

अंतश्चरति भूतेषु गुहायां विश्वमूर्तिषु
त्वं यज्ञस्त्वं वषट्कारस्त्व-मिंद्रस्त्वग्ं
रुद्रस्त्वं विष्णुस्त्वं ब्रह्मत्वं॑ प्रजापतिः ।
त्वं तदाप आपो ज्योतीरसो‌உमृतं ब्रह्म भूर्भुवस्सुवरोम् ।

ईशानस्सर्व विद्यानामीश्वर स्सर्वभूतानां
ब्रह्माधिपतिर्-ब्रह्मणो‌உधिपतिर्-ब्रह्मा शिवो मे अस्तु सदा शिवोम् ।

तद्विष्नोः परमं पदग्ं सदा पश्यंति
सूरयः दिवीवचक्षु राततं तद्वि प्रासो
विपस्यवो जागृहान् सत्समिंधते
तद्विष्नोर्य-त्परमं पदम् ।

ऋतग्ं स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒पिंग॑लम् ।
ऊ॒र्ध्वरे॑तं वि॑रूपा॑क्षं॒ वि॒श्वरू॑पाय॒ वै नमो॒ नमः॑ ॥

ॐ ना॒रा॒य॒णाय॑ वि॒द्महे॑ वासुदे॒वाय॑ धीमहि ।
तन्नो॑ विष्णुः प्रचो॒दया॓त् ॥

ॐ शांतिः॒ शांतिः॒ शांतिः॑ ।

According to Hindu Mythology Manthra Pushpam, is recited, at the conclusion of all major prayers, poojas and rituals.

How to chant Mantra Pushpam
You should first understand the Mantra Pushpam meaning in hindi to maximize its effect.

Benefits of Mantra Pushpam

Regular chanting of Mantra Pushpam after conclusion of pooja gives peace of mind and keeps away all the evil from your life and makes your life peaceful.

Mantra Pushpam in Tamil/Telgu/Gujrati/Marathi/English
Use Google Translator to get Mantra Pushpam in language of your choice.

Download Mantra Pushpam
By clicking below you can Free Download Mantra Pushpam in PDF format or also can Print it.

Print Friendly