LAKSHMI DWADASA NAMA STOTRAM | श्री लक्ष्मी द्वादशनाम स्तोत्रम्
श्री लक्ष्मी द्वादशनाम स्तोत्रम् ध्यानम् कान्त्या काञ्चनसन्निभां हिमगिरिप्रख्यैः चतुर्भिगजैः हस्तोत्क्षिप्तहिरण्मयाऽमृतघटैः आसिच्यमानां श्रियम्। बिभ्राणां वरमब्जयुग्ममभयं हस्तैः किरीटोज्ज्वलां क्षौमाबद्धनितम्बबिम्बललितां वन्देऽरविन्दस्थिताम्॥ त्रैलोक्यपूजिते देवि ! कमले विष्णुवल्लभे ! यथा त्वमचला कृष्णे तथा भव मयि स्थिरा॥ ईश्वरी कमला लक्ष्मीः चला भूतिर्हरिप्रिया। पद्मा पद्मालया सम्यक् उच्चैः श्रीः पद्मधारिणी॥
