Ketu Kavach | केतु कवच
II केतु कवचम् II
अथ केतुकवचम्
अस्य श्रीकेतुकवचस्तोत्रमंत्रस्य त्र्यंबक ऋषिः I
अनुष्टप् छन्दः I केतुर्देवता I कं बीजं I नमः शक्तिः I
केतुरिति कीलकम् I केतुप्रीत्यर्थं जपे विनियोगः II
केतु करालवदनं चित्रवर्णं किरीटिनम् I
प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् II १ II
चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः I
पातु नेत्रे पिंगलाक्षः श्रुती मे रक्तलोचनः II २ II
घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः I
पातु कंठं च मे केतुः स्कंधौ पातु ग्रहाधिपः II ३ II
हस्तौ पातु श्रेष्ठः कुक्षिं पातु महाग्रहः I
सिंहासनः कटिं पातु मध्यं पातु महासुरः II ४ II
ऊरुं पातु महाशीर्षो जानुनी मेSतिकोपनः I
पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिंगलः II ५ II
य इदं कवचं दिव्यं सर्वरोगविनाशनम् I
सर्वशत्रुविनाशं च धारणाद्विजयि भवेत् II ६ II
II इति श्रीब्रह्माण्डपुराणे केतुकवचं संपूर्णं II
How to Recite Ketu Kavach
To get the best result you should do recitation of Ketu Kavach in evening after taking bath and in front of God Ketu Idol or picture. You should first understand the Ketu Kavach meaning in hindi to maximize its effect.
Benefits of Ketu Kavach
Regular recitation of Ketu Kavach gives peace of mind and keeps away all the evil from your life and makes you healthy, wealthy and prosperous.
Download Ketu Kavach in Hindi MP3/PDF
By clicking below you can Free Download Ketu Kavach in PDF format or also can Print it.
केतु ग्रह के उपाय
Ketu Mantra | केतु मंत्र
Ketu Gayatri Mantra | केतु गायत्री मंत्र
