Budha Kavacham | बुध कवचं
बुध कवचं
अथ बुध कवचम्
बुधस्तु पुस्तकधरः कुङ्कुमस्य समद्युतिः ।
पीताम्बरधरः पातु पीतमाल्यानुलेपनः ॥ 1 ॥
कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा ।
नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः ॥ 2 ॥
घ्राणं गन्धप्रियः पातु जिह्वां विद्याप्रदो मम ।
कण्ठं पातु विधोः पुत्रो भुजौ पुस्तकभूषणः ॥ 3 ॥
वक्षः पातु वराङ्गश्च हृदयं रोहिणीसुतः ।
नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः ॥ 4 ॥
जानुनी रौहिणेयश्च पातु जङ्घे??उखिलप्रदः ।
पादौ मे बोधनः पातु पातु सौम्यो??उखिलं वपुः ॥ 5 ॥
अथ फलश्रुतिः
एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् ।
सर्वरोगप्रशमनं सर्वदुःखनिवारणम् ॥ 6 ॥
आयुरारोग्यशुभदं पुत्रपौत्रप्रवर्धनम् ।
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ॥ 7 ॥
॥ इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं सम्पूर्णम् ॥
How to Recite Budha Kavacham
To get the best result you should do recitation of Budha Kavacham early morning after taking bath and in front of God Budha Idol or picture. You should first understand the Budha Kavacham meaning in hindi to maximize its effect.
Benefits of Budha Kavacham
Regular recitation of Budha Kavacham gives peace of mind and keeps away all the evil from your life and makes you healthy, wealthy and prosperous.
Download Budha Kavacham
By clicking below you can Free Download Budha Kavacham in PDF format or also can Print it.
